(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.131. अध्यायः 131
Mahabharata - Udyoga Parva - Chapter Topics
श्रीकृष्णेन सभायां विश्वरूपप्रदर्शनम् ॥ 1 ॥
कृष्णप्रसादाल्लब्धचक्षुषा धृतराष्ट्रेण कृष्णं दृष्टवता वक्षुषा इतरेषामदि दृक्षया कृष्णवरात्पुनः स्वचक्षुषोरन्तर्धानाधिगमः ॥ 2 ॥
कृष्णेन तद्रूपोपसंहारपूर्वकं पूर्वरूपं स्वीकृत्य रथाधिरोहणेन कुन्तीसमीपगमनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच । 5-131-0x(3773)(36255)
विदुरेणैवमुक्तस्तु केशवः शत्रुपूगहा ।
दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् ॥ 5-131-1(36256)
एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन।
परिभूय सुदुर्बुद्धे ग्रहीतुं मां चिकीर्षसि ॥ 5-131-2(36257)
इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः ।
इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः ॥ 5-131-3(36258)
एवमुक्त्वा जाहासोच्चैः केशवः परवीरहा ।
तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः ।
`युगपच्च विनिष्पेतुः साक्षात्सर्वास्तु देवताः॥' 5-131-4(36259)
अङ्गुष्ठमात्रास्त्रिदशा बभूवुः पावकार्चिषः ।
तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् ॥ 5-131-5(36260)
लोकपाला भुजेष्वासन्नग्निरास्यादजायत।
आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि ॥ 5-131-6(36261)
मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च।
बभूवुश्चैव यक्षाश्च गन्धर्वोरगराक्षसाः ॥ 5-131-7(36262)
प्रादुरास्तां तथा दोर्भ्यां सङ्कर्षणधनञ्जयौ।
दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः ॥ 5-131-8(36263)
भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः।
अन्धका वृष्णयश्चैव प्रद्युम्नपरमुखास्ततः ॥ 5-131-9(36264)
अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः ।
शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः ॥ 5-131-10(36265)
अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च।
नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः ॥ 5-131-11(36266)
नेत्राभ्यां नासिकाभ्यां च श्रोत्राभ्यां च समन्ततः ।
प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः ॥ 5-131-12(36267)
रोमकूपेषु च तथा सूर्यस्येव मरीचयः ।
`सहस्रचरणः श्रीमाञ्शतबाहुः सहस्रदृक् ॥' 5-131-13(36268)
तस्य वै नागलोकश्च गुल्फाधो ददृशे तदा।
चन्द्रसूर्यौ तथा नेत्रे ग्रहः वै सर्वतः स्थिताः ॥ 5-131-14(36269)
ऊर्ध्वलोकाश्च सर्वेऽपि कुक्षौ तस्य व्यवस्थिताः ।
सरितः सागराश्चैव स्वेदस्तस्य महात्मनः ॥ 5-131-15(36270)
अस्थीनि पर्वताः सर्वे वृक्षा रोमाणि तस्य हि।
निमेषणं रात्र्यहनी जिह्वायां शारदा तथा ॥ ' 5-131-16(36271)
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः ।
न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः ॥ 5-131-17(36272)
ऋत द्रोणं च भीष्मं च विदुरं च महामतिम् ।
संजयं धृतराष्ट्रं च ऋषींश्चैव तपोधनान् ॥ 5-131-18(36273)
प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः ॥ 5-131-19(36274)
`धृतराष्ट्राय प्रददौ भगवान्दिव्यचक्षुषी ।
ददर्श परमं रूपं धृतराष्ट्रोऽम्बिकासुतः ॥ 5-131-20(36275)
ततो देवाः सगन्धर्वाः किन्नराश्च महोरगाः ।
ऋषयश्च महाभागा लोकपालैः समन्विताः ।
प्रणम्य शिरसा देवं तुष्टुवुः प्राञ्जलिस्थिताः ॥ 5-131-21(36276)
क्रोधं प्रभो संहर संहर स्वं
रूपं च यद्दर्शितमात्मसंस्थम् ।
यावत्त्विमे देवगणैः समेता
लोकाः समस्ता भुवि नाशमीयुः ॥ 5-131-22(36277)
त्वं च कर्ता विकर्ता च त्वमेव परिरक्षसे।
त्वया व्याप्तमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ 5-131-23(36278)
कियन्मात्रा महीपालाः किंवीर्याः किंपराक्रमाः ।
तेषामर्थे महाबाहो दिव्यं रूपं प्रदर्शिवान्।
एवमुच्चारिता वाचः सह देवार्विभुं तदा ॥' 5-131-24(36279)
तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले।
देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च ॥ 5-131-25(36280)
धृतराष्ट्र उवाच। 5-131-26x(3774)
त्वमेव पुण्डरीकाक्ष सर्वस्य जगतो हितः।
तस्मान्मे यादवश्रेष्ठ प्रसादं कर्तुमर्हसि ॥ 5-131-26(36281)
भगवन्मम नेत्राभ्यामन्तर्धानं वृणे पुनः ।
भवन्तं दृष्टवानस्मि नान्यं द्रष्टुमिहोत्सहे ॥ 5-131-27(36282)
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः ।
अदृश्यमाने नेत्रे द्वे भवेतां कुरुनन्दन ॥ 5-131-28(36283)
तत्राद्भुतं महाराज धृतराष्ट्रश्च चक्षुषी ।
लब्धवान्वासुदेवाच्च विश्वरूपदिदृक्षया ॥ 5-131-29(36284)
लब्धचक्षुषमासीनं धृतराष्ट्रं नराधिपाः ।
विस्मिता ऋषिभिः सार्धं तुष्टुवुर्मधुसूदनम् ॥ 5-131-30(36285)
चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे ।
विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ ॥ 5-131-31(36286)
ततः स पुरुषव्याघ्रः सञ्जहार वपुः स्वकम् ।
तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिन्दमः ॥ 5-131-32(36287)
ततः सात्यकिमादाय पाणौ विदुरमेव च ।
ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः ॥ 5-131-33(36288)
ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः ।
तस्मिन्कोलाहले वृत्ते तदद्भुतमिवाभवत् ॥ 5-131-34(36289)
तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः ।
अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतम् ॥ 5-131-35(36290)
अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् ।
निश्चक्राम ततः शौरिः सधूम इव पावकः ॥ 5-131-36(36291)
ततो रथेन शुभ्रेण महता किङ्किणीकिना ।
हेमजालविचित्रेण लघुना मेघनादिना ॥ 5-131-37(36292)
सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना ।
शैब्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः ॥ 5-131-39aतथैव रथमास्थाय कृतवर्मा महारथः ।
वृष्णीनां संमतो वीरो हार्दिक्यः समदृश्यत ॥ 5-131-38(36293)
उपस्थितरथं शौरिं प्रयास्यन्तमरिन्दमम् ।
धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत ॥ 5-131-40(36294)
यावद्बलं मे पुत्रेषु पश्यतस्ते जनार्दन ।
प्रत्यक्षं ते न ते किंचित्परोक्षं शत्रुकर्शन ॥ 5-131-41(36295)
कुरूणां शममिच्छन्तं यतमानं च केशव ।
विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि ॥ 5-131-42(36296)
न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव ।
ज्ञातमेव हितं वाक्यं यन्मयोक्तः सुयोधनः ॥ 5-131-43(36297)
जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः ।
शमे प्रयतमानं मां सर्वयत्नेन माधव ॥ 5-131-44(36298)
वैशम्पायन उवाच। 5-131-45x(3775)
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः।
द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम् ॥ 5-131-45(36299)
प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि।
यथा चाशिष्टवन्मन्दो रोषादद्य समुत्थितः ॥ 5-131-46(36300)
वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः ।
आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम् ॥ 5-131-47(36301)
आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभ ।
अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः ॥ 5-131-48(36302)
भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः।
अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः ॥ 5-131-49(36303)
ततो रथेन शुभ्रेण महता किङ्किणीकिना ।
कुरूणां पश्यतां द्रष्टुं स्वसारं स पितुर्ययौ ॥ ॥ 5-131-50(36304)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-131-28 अदृश्यमाने दर्शनशक्तिरहिते ॥ 5-131-38 वरूथिना रथगुप्तिमता ॥ 5-131-46 मन्दो दुर्योधनः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.